|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.196. अध्यायः 196
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
महेश्वरेण देवादीन्प्रति गोप्रशंसनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
[महेश्वर उवाच।
सारमुद्धृत्य युष्माभिः साधुधर्म उदाहृतः।
धर्मगुह्यमिदं मत्तः शृणुध्वं सर्व एव ह॥ 13-196-1(89069)
येषां धर्माश्रिता बुद्धिःक श्रद्दधानाश्च ये नराः।
तेषां स्यादुपदेष्टव्यः सरहस्यो महाफलः॥ 13-196-2(89070)
निरुद्विग्नस्तु यो दद्यान्मासमेकं गवाह्निकम्।
एकभक्तं तथाऽश्नीयाच्छ्रूयतां तस्य यत्फलम्॥ 13-196-3(89071)
इमा गावो महाभागाः पवित्रं परमं स्मृताः।
त्रीन्लोकान्धानयन्ति स्म सदेवासुरमानुपान्॥ 13-196-4(89072)
तासु चैव महापुण्यं शुश्रूषा च महाफलम्।
अहन्यहनि धर्मेण युज्यते वै गवाह्निकः॥ 13-196-5(89073)
मया ह्येता ह्यनुज्ञाताः पूर्वमासन्कृते युगे।
ततोऽहमनुनीतो वै ब्रह्मणा पद्मयोनिना॥ 13-196-6(89074)
तस्माद्व्रजस्थानगतस्तिष्ठत्युपरि मे वृषः।
रमेऽहं सह गोभिश्च तस्मात्पूज्याः सदैव ताः॥ 13-196-7(89075)
महाप्रभावा वरदा वरं दद्युरुपासिताः।
ता गावोऽस्यानुमन्यन्ते सर्वकर्मसु युत्फलम्॥ 13-196-8(89076)
तस्य तत्र चतुर्भागो यो ददाति गवाह्निकम्॥] ॥ 13-196-9(89077)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षण्णवत्यधिकशततमोऽध्यायः॥ 196 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|